संकट-नाशिनी श्री दश-मयी बाला-स्तोत्र (मेरु-तन्त्रोक्त)
ॐ श्रीकाली बगलामुखी च ललिता धूमावती भैरवी । मातंगी भुवनेश्वरी च कमला श्रीवज्र–वैरोचनी ।।
तारा–पूर्व महा–पदेन कथिता विद्या स्वयं शम्भुना । लीला रुप–मयी च देश–दशधा बाला तु माम् पातु सा ।।
ॐ श्यामां श्यामघनावभासरुचिरां निलालकाऽलंकृताम् । बिम्बोष्ठीं बलि शत्रुवन्दितपदां बालार्ककोटीप्रभाम् ।।
त्रास–त्राण–कृपाण–मुण्ड–दधतीं भक्ताय दानोद्यताम् । वन्दे संकट–नाशिनीं भगवतीं बालां स्वयं कालिकाम् ।।
ॐ ब्रह्मास्त्रां सुमुखीं बकार–विभवां बालां बलाकी–निभां । हस्त–न्यस्त–समस्त वैरिरसनामन्ये दधानां गदाम् ।।
पीतां भूषण–गन्ध–माल्य–रुचिरां पीताम्बरागां वराम् । वन्दे संकट–नाशिनीं भगवतीं बालां च वल्गामुखीम् ।।
ॐ बालार्क–द्युति–भास्करां त्रिनयनां मन्द–स्मितां सन्मुखीं । वामे पाश–धनुर्धरां सुविभवां बाणं तथा दक्षिणे ।।
पारावार–विहारिणीं पर–मयीं पद्मासने संस्थिताम् । वन्दे संकट–नाशिनीं भगवतीं बालां स्वयं षोडशीम् ।।
ॐ दीर्घां दीर्घकुचामुदग्रदशनां दुष्टच्छिदां देवताम् । क्रव्यादां कुटिलेक्षणां च कुटिलां काकध्वजां क्षुत्कृशाम् ।।
देवीं सूर्प–करां मलीन–वसनां तां पीप्लादार्चिताम् । वन्दे संकट–नाशिनीं भगवतीं ध्यायामि धूमावतीम् ।।
ॐ उद्यत्कोटि–दिवाकर–प्रतिभटां बालार्कभा–कर्पटाम् । मालापुस्तक–पाशमंकुश–धरां दैत्येन्द्र–मुण्ड–स्रजाम् ।।
पीनोत्तुङ्ग–पयोधरां त्रि–नयनां ब्रह्मादिभिः संस्तुताम् । बालां संकट–नाशिनीं भगवतीं श्रीभैरवीं धीमहि ।।
ॐ वीणा–वादन–तत्परां त्रि–नयनां मन्द–स्मितां सन्मुखीम् । वामे पाश–धनुर्धरां तु निकरे बाणं तथा दक्षिणे ।।
पारावार–विहारिणीं पर–मयीं ब्रह्मासने संस्थिताम् । वन्दे संकट–नाशिनीं भगवतीं मातंगिनीं बालिकाम् ।।
ॐ उद्यत–सूर्यनिभां च इन्दु–मुकुटामिन्दीवरे संस्थिताम् । हस्ते चारु–वराभयं च दधतीं पाशं तथा चांकुशम् ।।
चित्रालंकृतमस्तकां त्रिनयनां ब्रह्मादिभि सेविताम् । वन्दे संकटनाशिनीं भगवतीं च भुवनेशीमादिबालां भजे ।।
ॐ देवीं काञ्चनसंन्निभां त्रिनयनां फुल्लारविन्दस्थिताम् । विभ्राणां वरमब्ज युग्ममभयं हस्तैः किरीटोज्ज्वलाम् ।।
प्रलेयाचल–सन्निभैश्च करिभिराषिञ्च्यमानां सदा । बालां संकट–नाशिनीं भगवतीं लक्ष्मीं भजे चेन्दिराम् ।।
ॐ सच्छिन्नां स्वशिरो–विकीर्ण–कुटिलां वामे करे विभ्रतीं । तृप्तास्य–स्वशरीरजैश्च रुधिरैः संतर्पयन्तीं सखीम् ।।
सद्–भक्ताय वर–प्रदान–निरतां प्रेतासनाध्यासिनीम् । बालां संकट–नाशिनीं भगवतीं श्रीछिन्नमस्तां भजे ।।
ॐ उग्रामेक–जटामनन्त–सुखदां दूर्वा–दलाभामजाम् । कर्त्री–खड्ग–कपाल–नीलकमलान् हस्तैर्वहन्तीं शिवाम् ।।
कण्ठे मुण्ड–स्रजां कराल–वदनां कञ्जासने संस्थिताम् । वन्दे संकट–नाशिनीं भगवतीं बालां स्वयं तारिणीम् ।।
ॐ मुखे श्रीमातंगी तदनु किल तारा च नयने । तदन्तर्गा काली भृकुटी–सदने भैरवी परा ।।
कटौ छिन्ना धूमावती जय कुचेन्दी कमलजा । पदांशे ब्रह्मास्त्रा जयति किल बाला दश–मयी ।।
ॐ विराजन् मन्दार–द्रुम–कुसुम–हारस्तन–तटी । परित्रास–त्राणा स्फटिक–गुटिका पुस्तक–वरा ।।
गले रेखातिस्रौ गमक–गति–गीतैक–निपुणा । सदा पीता हाला जयति किल बाला दश–मयी ।।
